|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.254. अध्यायः 254
Mahabharata - Vana Parva - Chapter Topics
भीष्मेण दुर्योधनंप्रति पाण्डवप्रशंसनपूर्वकं तैःसह सन्धिविधानम् ॥ 1 ॥ तथा कर्णस्य गर्हणम् ॥ 2 ॥ दुर्योधनानुमत्या कर्णेन दिग्विजयाया निर्गमनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
जनमेजय उवाच। 3-254-0x(2623)(25760)
एवं गतेषु पार्थेषु वने तस्मिन्महात्मसु।
धार्तराष्ट्रा महेष्वासाः किमकुर्वत सत्तमाः ॥ 3-254-1(25761)
कर्णो वैकर्तनश्चैव शकुनिश्च महाबलः।
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि ॥ 3-254-2(25762)
वैशम्पायन उवाच। 3-254-3x(2624)
एवं गतेषु पार्थेषु विसृष्टे च सुयोधने।
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः।
भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वच ॥ 3-254-3(25763)
उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम्।
वचनं ते न रुचितं मम तन्न कृतं च ते ॥ 3-254-4(25764)
ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात्।
मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ॥ 3-254-5(25765)
प्रत्यक्षं तव गान्धारे ससैन्यस् विशांपते।
सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् ॥ 3-254-6(25766)
क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज।
`व्यपायात्पृष्ठतस्तस्मात्प्रेक्षमाणः पुनःपुनः ॥' 3-254-7(25767)
दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम्।
कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मते ॥ 3-254-8(25768)
न चापि पादभाक्कर्णः पाण्डवानां महात्मनाम्।
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ॥ 3-254-9(25769)
तस्मादहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः।
रसन्धिं सन्धिविदांश्रेष्ठ कुलस्यास्य विवृद्धये ॥ 3-254-10(25770)
एवमुक्तश्च भीष्मेण धार्तराष्ट्रो जनेश्वरः।
प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः ॥ 3-254-11(25771)
तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः।
अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् ॥ 3-254-12(25772)
तांस्तु संप्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः।
लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् ॥ 3-254-13(25773)
गते भीष्मे महाराज धार्तराष्ट्रो जनेश्वरः।
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः ॥ 3-254-14(25774)
किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते।
कथं च सुकृतं तत्स्यान्मन्त्रयामास भारत ॥ 3-254-15(25775)
[*कर्ण उवाच। 3-254-16x(2625)
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव।
भीष्मोस्मान्निन्दति सदा पाण्डवांश्च प्रशंसति ॥ 3-254-16(25776)
त्वद्वेषाच्च महाबाहो मामपि द्वेष्टुमर्हति।
विगर्हते च मां नित्यं त्वत्समीपे नरेश्वर ॥ 3-254-17(25777)
सोऽहं भीष्मवचस्तद्वै न मृष्यामीह भारत।
त्वत्समं यदुक्तं च भीष्मेणामित्रकर्शन ॥ 3-254-18(25778)
पाण्डवानां यशो राजंस्तव निन्दां च भारत।
अनुजानीहि मां राजन्सभृत्यबलवाहनम् ॥ 3-254-19(25779)
जेष्यामि पृथिवीं राजन्सशैलवनकाननाम्।
जिता च पाण्डवैर्भूमिश्चतुर्भिर्बलशालिभिः ॥ 3-254-20(25780)
तामहं ते विजेष्यामि एक एव न संशयः।
संपश्यतु सुदुर्बुद्धिर्भीष्मः कुरुकुलाधमः ॥ 3-254-21(25781)
अनिन्द्यं निन्दते यो हि अप्रशंस्यं प्रशंसति।
स पश्यतु बलं मेऽद्य आत्मानं तु विगर्हतु ॥ 3-254-22(25782)
अनुजानीहि मां राजन्ध्रुवो हि विजयस्तव।
प्रतिजानामि ते सत्यं राजन्नायुधमालभे ॥ 3-254-23(25783)
तच्छ्रुत्वा तु वचो राजन्कर्णस्य भरतर्षभ।
प्रीत्या परमया युक्तः कर्णमाह नराधिपः ॥ 3-254-24(25784)
धन्योस्म्यनुगृहीतोस्मि यस्य मे त्वं महाबलः।
हितेषु वर्तसे नित्यं सफलंजन्म चाद्य मे ॥ 3-254-25(25785)
यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम्।
तदा निर्गच्छ भद्रं ते ह्यनुशाधि च मामिति ॥ 3-254-26(25786)
एवमुक्तस्तदा कर्णो धार्तराष्ट्रेण धीमता।
सर्वमज्ञापयामास प्रायात्रिकमरिंदम ॥ 3-254-27(25787)
प्रययौ च महेष्वासो नक्षत्रे शुभदैवते।
शुभेतिथौ मुहूर्ते च पुज्यमानो द्विजातिभिः ॥ 3-254-28(25788)
मङ्गलैश्च शुभैः स्नातो वाग्भिश्चापि प्रपूजितः।
नादयन्रथघोषेण त्रैलोक्यं सचराचरम् ॥ 3-254-29(25789)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि चतुःपञ्चासदधिकद्विशततमोऽध्यायः ॥ 254 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-254-6 अपयात् अपायात् पलायितः ॥ 3-254-10 संधिं क्षमं युक्तं मन्ये ॥ 3-254-15 मन्त्रयामोऽद्य यद्धितमिति झ. ध.पाठः ॥ 3-254-27 प्रायात्रिकं प्रयातुं राज्ञोऽपेक्षितं शकटापणवीथ्यादि ॥ 3-254-29 मङ्गलैः मङ्गलद्रव्यैः सुगन्धतैलादिभिः स्नातः। शुभैर्नीराजनादिभिः प्रययौ इति संबन्धः ॥ * एतदादिः सार्धोऽध्यायो झ. पुस्तकएव दृश्यते ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|